मंगलवार, 10 जून 2014

असंख्याः ग्रहाः सन्ति

Astroking Ravi
असंख्याः ग्रहाः सन्ति, अन्यसौरमण्डलानि अपि भवितुम् अर्हन्ति इत्यादयः विचाराः भारतीये ज्योतिश्शास्त्रे रुढमूलाः सन्ति । ग्रहाणां स्थितिः, परस्पराकर्षणं, ग्रहणस्वरुपम् इत्यादयः अत्र विस्तरेण उक्ताः । कुजग्रहस्य स्वरुपं चपलः सरक्तगौरः मज्जासारश्च माहेयः इत्येवम् उक्तवान् अस्ति आचार्यः वराहमिहिरः। आधुनिकशास्त्रकाराः वदन्तिकुजस्य उपरि उग्रतुषारावरणम् अस्ति इत्यतः रक्तवर्णयुक्तधवलवर्णः तत्र दृश्यते इति । कुजः (भूमिपुत्रः ) इति शब्दः एव तदग्रहे जीवसम्भाव्यतां प्रकाशयति । आधुनिकाः अपि एतत् एव वदन्ति खलु ? सूर्यादीनां सञ्चारः भ्रममूलः, ग्रहाणां स्वप्रकाशता नास्ति इत्यादयः बहवः वैज्ञानिकाः अंशाः आर्यभटेन प्रतिपादिताः । एते विषयाः इतः पूर्वं परिचायिताः इत्यतः विरम्यते विस्तरात् ॥
मेषः द्वादश राशिषु अन्यतमः अस्ति । द्वादश राशयः मेषराशिः, वृषभराशिः, मिथुनराशिः, कर्कटराशिः, सिंहराशिः, कन्यारशिः, तुलाराशिः, वृश्चिकराशिः, धनूराशिः, मकरराशिः, कुम्भराशिः, मीनराशिः च सन्ति ।
मेष-वृश्चिकयोः अधिपतिः कुजः । ग्रहराज्यव्यवस्थायां कुजः भवति दण्डनायकः । निर्णयानाम् अन्वयनशक्तिः, अद्भुतनिर्वहणाशक्तिः, न्याययुत-योजनायुतजीवनाय प्रयत्नशीलता च कुजस्य स्वभावः । मेषराशिवन्तः निर्णयानां कार्यान्वयनविषये अतीव जागरूकाः भवन्ति । अन्येषाम् आधिपत्यं, स्वीये कार्ये अन्येषां प्रवेशं च एते न सहन्ते । समीचीनतया कार्यनिर्वहणं, अन्यैः कार्यकारणञ्च एतेषां वैशिष्ट्यम् । एते सर्वदा अपि कस्मिंश्चित् कार्ये मग्नाः भवन्ति । परिश्रमेण एव आनन्दः अनुभूयते एतैः । कार्यकरणे सर्वे क्लेशाः आनन्देन एव एतैः सम्मुखीक्रियन्ते ।निर्वहणकार्ये अत्युत्तमा व्यवस्था एतैः क्रियते । रक्षणाविभागे एते प्रत्यक्षपात्रं वहन्ति । कार्यं समग्रदृष्ट्या परिशीलयन्तः स्वीयं कार्यम् इति भावयन्तः कार्योन्नतिं सम्पादयन्ति । अन्येषाम् आदर्शप्रायाः भवन्ति ।
वृषभ-तुलाराश्योः शुक्रः अधिपतिः । ग्रहराज्यव्यवस्थायां शुक्रः अमात्यः भवति यथा गुरुः । किन्तु गुरु-शुक्रयोः केचन मौलिकभेदाः भवन्ति । न्याययुत-स्पष्टजीवनशैलिं गुरुः सङ्केतयति । शुक्रः तु आवश्यकतानुगुणं सूक्तनिर्णयान् स्वीकुर्वन् समस्यानिरारणाय प्रयतमानः परोपकारस्वभावी अस्ति । वृषभराशिवन्तः समाजे प्रभाविजनैः सह उत्तमबान्धव्यं सम्पादयन्ति । तद्वारा स्वस्य अन्येषां च कार्याणि साधयन्ति । स्वस्य शक्तेः अपेक्षया अधिकं प्रचारं प्राप्नुवन्ति एते । कदाचित् अयं स्वभावः व्यतिरेकपरिणामं जनयेत् । समस्यापरिहरणे एतेषां सामर्थ्यम् अधिकम् इत्यतः सर्वेषां प्रीतिपात्रताम् आप्नुवन्ति ।
मिथुन-कन्याराश्योः बुधः अधिपतिः । बुधः पलायनवादी । ग्रहराज्यव्यवस्थायाः दृष्ट्या अयं वणिक् विद्यते । वणिजाम् अनुपस्थितौ अपेक्षितवस्तूनां सम्पूरणं कष्टकरम् । बुधः नाम पण्डितः इत्यपि अर्थः । कालानुगुणान् निर्णयान् स्वीकुर्वन् कार्याणां सम्पादनसामर्थ्यं बुधेन एव साध्यम् । अन्येषां साहाय्यम् आचरन् स्वस्य लाभस्य सम्पादनं, सर्वेषां सन्तोषणे अत्यन्तं समर्थः नाम बुधः एव । सर्वैः सह समञ्जनं, स्वस्य प्रामुख्यप्रदर्शनञ्च एतेषां विशेषलक्षणम् । मिथुनराशिवतां वस्तुक्रयणे, कन्याराशिवतां वस्तुविक्रयणे विशेषसामर्थ्यं दृश्यते । गुणविषये ग्रहणम् आदरणं च बुधद्वारा एव निश्चीयते । समाजोन्मुखचिन्तनम् एतेषां वैशिष्ट्यम् ।
कर्कटराशेः अधिपतिः अस्ति चन्द्रः । असमर्थः राजा राज्ञी इति वा चन्द्रं सामान्यतः जनाः अभिजानन्ति । कर्कटराशिवन्तः सर्वे यदि सहकुर्वन्ति तर्हि आधिपत्यं प्राप्तव्यम् इति इच्छुकाः प्रयतमानाश्च भवन्ति । चन्द्रः न स्वयं प्रकाशः, अन्यं ग्रहं परितः भ्रमति, तस्य कलाः परिवर्तन्ते इत्यतः कर्कटराशिवन्तः आवश्यकतानुगुणं व्यवहारः, अवसरे प्राप्ते स्वस्य प्रामुख्यस्य प्रदर्शनम्, स्नेहशीलता, अन्येषु अवलम्बनस्वभावश्च भवन्ति । चन्द्रः रात्रौ प्राबल्यं यथा प्रदर्शयति तथा एते कार्यनिर्वहणावसरे कुत्रचित् स्वस्य वैशिष्ट्यं प्रदर्शयन्ति । असमर्थः राजा इत्यतः एतेषु अन्येषां प्रभावः भवति अगाधः । एते सर्वेषाम् अभिप्रायं शृण्वन्ति । सर्वान् तोषयितुं प्रयतन्ते च । अन्येषाम् अभिप्रायाः न आद्रियन्ते चेत् स्वस्य स्थानं रक्षितं न भवति इति एतेषां चिन्तनम् । राज्ञी इत्यतः प्रीत्या, जलग्रहः इत्यतः आकर्षणेन उपायनादीनां दानेन च सर्वान् वशीकर्तुम् एते प्रयतन्ते । सर्वे मम वचनं न शृण्वन्ति इति चिन्तयद्भिः एतैः मानसिकभावावेगः अनुभूयते । सुलभतया रोगग्रस्ताः भवन्ति । शारीरक-मानसिक-अस्वास्थ्यावसरे आत्मीयाः सर्वे समीपे एव भवेयुः इति आग्रहः अधिकः दृश्यते एतेषु । मातृप्रीतिः, न्यूननिर्णयशक्तिः, आकर्षणञ्च एतेषां वैशिष्ट्यम् ।
सिंहराशेः अधिपतिः रविः । रविः ग्रहाणां राजा । सूर्यः स्वयं प्रकाशवान्, स्वावलम्बी सन् अन्येभ्यः प्रकाशं तापञ्च वितरन् सर्वान् उपकरोति । इदं तत्त्वं सिंहराशिवत्सु अधिकतया दृश्यते । एतेषु आत्मविश्वासः अत्यधिकः इत्यतः सर्वत्रापि मम निर्णयः एव अन्तिमः भवेत्, सर्वे माम् एव अनुसरेयुः इति तत्त्वं तेषु अधिकतया भवति । अयं गुणः कदाचित् दुराग्रहं मूर्खताञ्च प्रदर्शयति । किन्तु सः भावः यथा दृग्गोचरः न स्यात् तथा ते निर्वहन्ति । स्वस्य भावनाः निगूह्य न्यूनताः सङ्गोप्य गम्भीरतया वर्तयन्ति ते । अन्येषां प्रगति एतेषाम् असहनाय भवति । असहना असूयारूपं यदि प्राप्नोति ते अन्यान् बाधन्ते च । स्वस्य विषयः उच्यते चेत् अन्ये ममविषये लघुचिन्तनं कुर्युः इति भयेन एते अन्यान् किमपि न वदन्ति । तस्मात् चिन्ताभारेण हृदयरोगं मनोव्याधिञ्च प्राप्नुवन्ति । कार्यनिर्वहणे एते नितरां सामर्थ्यवन्तः भवन्ति । मत्तः बहु जनाः प्रयोजनं प्राप्नुयुः ततः ते कृतज्ञाः स्युः, स्वस्य नियन्त्रणे स्युः इत्यपि एते इच्छन्ति । एतन्निमित्तं कदाचित् ते अन्यान् भाययेयुः अपि ।
मिथुन-कन्याराश्योः बुधः अधिपतिः । बुधः पलायनवादी । ग्रहराज्यव्यवस्थायाः दृष्ट्या अयं वणिक् विद्यते । वणिजाम् अनुपस्थितौ अपेक्षितवस्तूनां सम्पूरणं कष्टकरम् । बुधः नाम पण्डितः इत्यपि अर्थः । कालानुगुणान् निर्णयान् स्वीकुर्वन् कार्याणां सम्पादनसामर्थ्यं बुधेन एव साध्यम् । अन्येषां साहाय्यम् आचरन् स्वस्य लाभस्य सम्पादनं, सर्वेषां सन्तोषणे अत्यन्तं समर्थः नाम बुधः एव । सर्वैः सह समञ्जनं, स्वस्य प्रामुख्यप्रदर्शनञ्च एतेषां विशेषलक्षणम् । मिथुनराशिवतां वस्तुक्रयणे, कन्याराशिवतां वस्तुविक्रयणे विशेषसामर्थ्यं दृश्यते । गुणविषये ग्रहणम् आदरणं च बुधद्वारा एव निश्चीयते । समाजोन्मुखचिन्तनम् एतेषां वैशिष्ट्यम् ।
वृषभ-तुलाराश्योः शुक्रः अधिपतिः । ग्रहराज्यव्यवस्थायां शुक्रः अमात्यः भवति यथा गुरुः । किन्तु गुरु-शुक्रयोः केचन मौलिकभेदाः भवन्ति । न्याययुत-स्पष्टजीवनशैलिं गुरुः सङ्केतयति । शुक्रः तु आवश्यकतानुगुणं सूक्तनिर्णयान् स्वीकुर्वन् समस्यानिरारणाय प्रयतमानः परोपकारस्वभावी अस्ति । वृषभराशिवन्तः समाजे प्रभाविजनैः सह उत्तमबान्धव्यं सम्पादयन्ति । तद्वारा स्वस्य अन्येषां च कार्याणि साधयन्ति । स्वस्य शक्तेः अपेक्षया अधिकं प्रचारं प्राप्नुवन्ति एते । कदाचित् अयं स्वभावः व्यतिरेकपरिणामं जनयेत् । समस्यापरिहरणे एतेषां सामर्थ्यम् अधिकम् इत्यतः सर्वेषां प्रीतिपात्रताम् आप्नुवन्ति ।
मेष-वृश्चिकयोः अधिपतिः कुजः । ग्रहराज्यव्यवस्थायां कुजः भवति दण्डनायकः । निर्णयानाम् अन्वयनशक्तिः, अद्भुतनिर्वहणाशक्तिः, न्याययुत-योजनायुतजीवनाय प्रयत्नशीलता च कुजस्य स्वभावः । मेषराशिवन्तः निर्णयानां कार्यान्वयनविषये अतीव जागरूकाः भवन्ति । अन्येषाम् आधिपत्यं, स्वीये कार्ये अन्येषां प्रवेशं च एते न सहन्ते । समीचीनतया कार्यनिर्वहणं, अन्यैः कार्यकारणञ्च एतेषां वैशिष्ट्यम् । एते सर्वदा अपि कस्मिंश्चित् कार्ये मग्नाः भवन्ति । परिश्रमेण एव आनन्दः अनुभूयते एतैः । कार्यकरणे सर्वे क्लेशाः आनन्देन एव एतैः सम्मुखीक्रियन्ते ।निर्वहणकार्ये अत्युत्तमा व्यवस्था एतैः क्रियते । रक्षणाविभागे एते प्रत्यक्षपात्रं वहन्ति । कार्यं समग्रदृष्ट्या परिशीलयन्तः स्वीयं कार्यम् इति भावयन्तः कार्योन्नतिं सम्पादयन्ति । अन्येषाम् आदर्शप्रायाः भवन्ति ।
धनु-मीनराश्योः अधिपतिः गुरुः । ग्रहराज्यव्यवस्थायाः अनुसारं गुरुः समर्थः न्यायनिष्ठः अमात्यः । स्वस्य चिन्तनानि लोककल्याणकारकाणि भवेयुः इति आशास्ते अयम् । लोकोपकारिणां कार्याणां विषये संशोधने अग्रेसरप्रवृत्तिः एतेषु दृश्यते । उत्तम चिन्तनानि लक्ष्यसाधनशक्तिश्च धनुराशिवतां वैशिष्ट्यम् । उपकारिणां विधानानां प्रचाराय निरन्तरं प्रयतन्ते एते । विषयाणां गभीराध्ययनं, लाभालाभविषये विश्लेषणम्, उत्तमस्य प्रोत्साहनम्, अनुत्तमस्य निवारणाय समीचीनयोजनानिर्माणं च अमात्यस्य गुरोः कार्याणि । जनानाम् आवश्यकतायाः अभिज्ञानं, सर्वे यथा प्राप्नुयुः तथा करणाय संशोधनानि योजनाश्च तेषां द्वारा एव भविष्यति । स्वस्य भावान् अन्येषां द्वारा कार्यान्वयनं कर्तुम् एते प्रयतन्ते । अहमेव अग्रे भवेयम् इति एते न चिन्तयन्ति । आडम्बर-विलासादयः एतेषु न दृश्यन्ते । सामान्य-अपेक्षाणां विषये सहकारः प्राप्तः चेत् एते सन्तुष्टाः । स्वकार्ये एव मग्नाः सन्तः अन्येषाम् अपि मार्गदर्शनं कुर्वन्तः भवन्ति । गभीरपरिशीलनं धनुराशिवतां वैशिष्ट्यम् । सर्वविधसंशोधनानि परमात्मनः प्राप्त्यै मार्गाः इति गुरुग्रहस्य प्रभावेण एव भावयितुं शक्यम् । आत्मगौरववर्धनं गुरुग्रहस्य वैशिष्ट्यम् ।
मकर-कुम्भराश्योः शनिः अधिपतिः । ग्रहराज्यव्यवस्थायाः अनुसारं शनिः सेवकः । सेवातत्परतायाः सङ्केतः शनिः । शान्तिदाता अपि शनिः । लोके सेवायाः अपेक्षया उत्तमः धर्मः अन्यः न विद्यते । सेवातत्त्वं समीचीनतया अवगत्य कष्टकाले ये सहकर्तुम् अग्रे आगच्छन्ति ते अस्मिन् राशौ अन्तर्भवन्ति । मकरराशौ श्रमपूर्वकसेवा दृश्यते । अहङ्काराभिमानैः मुक्ता सेवा अत्र भवेत् । रुग्णालयेषु सेवकाः हृदयपूर्वकं यदि कार्यं कुर्वन्ति तर्हि सा उत्तमसेवा इति उच्यते । तादृशानां सेवाकार्याणां शनिः कारकः भवति ।
मकर-कुम्भराश्योः शनिः अधिपतिः । ग्रहराज्यव्यवस्थायाः अनुसारं शनिः सेवकः । सेवातत्परतायाः सङ्केतः शनिः । शान्तिदाता अपि शनिः । लोके सेवायाः अपेक्षया उत्तमः धर्मः अन्यः न विद्यते । सेवातत्त्वं समीचीनतया अवगत्य कष्टकाले ये सहकर्तुम् अग्रे आगच्छन्ति ते अस्मिन् राशौ अन्तर्भवन्ति । कुम्भराशौ सुखिनः सन्तः सेवाकार्ये आत्मानं योजितवन्तः भवन्ति । अहङ्काराभिमानैः मुक्ता सेवा अत्र भवेत् । रुग्णालयेषु सेवकाः हृदयपूर्वकं यदि कार्यं कुर्वन्ति तर्हि सा उत्तमसेवा इति उच्यते । तादृशानां सेवाकार्याणां शनिः कारकः भवति ।
धनु-मीनराश्योः अधिपतिः गुरुः । ग्रहराज्यव्यवस्थायाः अनुसारं गुरुः समर्थः न्यायनिष्ठः अमात्यः । स्वस्य चिन्तनानि लोककल्याणकारकाणि भवेयुः इति आशास्ते अयम् । लोकोपकारिणां कार्याणां विषये संशोधने अग्रेसरप्रवृत्तिः एतेषु दृश्यते । उत्तम चिन्तनानि लक्ष्यसाधनशक्तिश्च धनुराशिवतां वैशिष्ट्यम् । उपकारिणां विधानानां प्रचाराय निरन्तरं प्रयतन्ते एते । विषयाणां गभीराध्ययनं, लाभालाभविषये विश्लेषणम्, उत्तमस्य प्रोत्साहनम्, अनुत्तमस्य निवारणाय समीचीनयोजनानिर्माणं च अमात्यस्य गुरोः कार्याणि । जनानाम् आवश्यकतायाः अभिज्ञानं, सर्वे यथा प्राप्नुयुः तथा करणाय संशोधनानि योजनाश्च तेषां द्वारा एव भविष्यति । स्वस्य भावान् अन्येषां द्वारा कार्यान्वयनं कर्तुम् एते प्रयतन्ते । अहमेव अग्रे भवेयम् इति एते न चिन्तयन्ति । आडम्बर-विलासादयः एतेषु न दृश्यन्ते । सामान्य-अपेक्षाणां विषये सहकारः प्राप्तः चेत् एते सन्तुष्टाः । स्वकार्ये एव मग्नाः सन्तः अन्येषाम् अपि मार्गदर्शनं कुर्वन्तः भवन्ति । सामान्यपरिशीलनं मीनराशिवतां वैशिष्ट्यम् । सर्वविधसंशोधनानि परमात्मनः प्राप्त्यै मार्गाः इति गुरुग्रहस्य प्रभावेण एव भावयितुं शक्यम् । आत्मगौरववर्धनं गुरुग्रहस्य वैशिष्ट्यम् ।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

Thank you for commenting. We will contact you soon.

Astrology

हनुमान जन्मोत्सव

  हनुमान जन्मोत्सव की ढेर सारी शुभकामनाएं.. ईश्वर सभी को निरोगी रखें.. नासे रोग हरे सब पीरा, जो सुमिरे हनुमंत बलबीरा.